अथ पञ्चदशोsध्याय:
पुरुषोत्तमयोग:
🔔मूलश्लोक: 🔔
यस्मात्क्षरमतीतोSहमक्षरादपि चोत्तम: ।
अतोSस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥१५.१८॥
🏹पदच्छेदः........
यस्मात् क्षरम् अतीत: अहम् अक्षरात् अपि च उत्तम: अत: अस्मि लोके वेदे च प्रथित: पुरुषोत्तम:
🌹पदपरिचयः......🌹
यस्मात् - दकार पु प एक
क्षरम् - अकार पु द्वि एक
अतीत: - अकार पु प्र एक
अक्षरात् - अकार पु प एक
उत्तम: - अकार पु प्र एक
लोके - अकार पु स एक
वेदे - अकार पु स एक
प्रथित: - अकार पु प्र एक
पुरुषोत्तम: - अकार पु प्र एक
🌷 पदार्थः.
यस्मात् - यस्मात् कारणात्
क्षरम् - अचेतनम्
अतीत: - अतिक्रान्त:
अक्षरात् - चेतनात्
उत्तम: - उत्कृष्टतम:
लोके - लोके
वेदे - वेदे
प्रथित: - प्रख्यात:
पुरुषोत्तम: - पुरुषोत्तम:
🌻अन्वयः 🌻
यस्मात् अहं क्षरम् अतीत: अक्षरात् अपि उत्तम: । अत: लोके वेदे च पुरुषोत्तम: प्रथित: अस्मि ।
🌻व्याकरणम्.......
▶ सन्धिः
अतीत: + अहम् - विसर्गउकार: पूर्वरूपसन्धि:
अक्षरात् + अपि - जश्त्वसन्धि:
च + उत्तम: - गुणसन्धि:
अत:+ अस्मि -विसर्गउकार: पूर्वरूपसन्धि:
☸☸ श्री कृष्णार्पणमस्तु ☸☸
~ ✍ शरवण:
05.10.2019