🕉 श्रीमद्भगवद्गीता 🕉 अथ पञ्चदशोsध्याय: पुरुषोत्तमयोग: 🔔मूलश्लोक: 🔔 श्री भगवानुवाच ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५.१॥

🕉 श्रीमद्भगवद्गीता 🕉
अथ पञ्चदशोsध्याय:
पुरुषोत्तमयोग:

🔔मूलश्लोक: 🔔
श्री भगवानुवाच
ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५.१॥

🏹पदच्छेदः........

ऊर्ध्वमूलम् अध:शाखम् अश्वत्थं प्राहु: अव्ययम् छन्दांसि यस्य पर्णानि य: तं वेद स: वेदवित्

🌹पदपरिचयः......🌹
ऊर्ध्वमूलम् - अकार पु द्वि एक
अध:शाखम् - अकार पु द्वि एक
अश्वत्थं - अकार पु द्वि एक
प्राहु: - लट् प्रपु बहु
अव्ययम् - अकार पु द्वि एक
छन्दांसि - सकार नपु प्र बहु
पर्णानि - अकार नपु प्र बहु
वेद - लट् प्रपु एक
वेदवित् - तकार पु प्र एक

🌷 पदार्थः.

ऊर्ध्वमूलम् -  ऊर्ध्वस्थितपुरुषोत्तममूलम्
अध:शाखम् - नीचस्थितमहदहङ्कारतन्मात्रादय:
अश्वत्थं -  अश्वत्थं
प्राहु: - वदन्ति
अव्ययम् - नाशरहितम्
छन्दांसि - वेदा:
पर्णानि - पत्राणि
वेद - जानाति
वेदवित् -वेदार्थज्ञ:

🌻अन्वयः 🌻

(ते) ऊर्ध्वमूलम् अध:शाखम् यस्य छन्दांसि  पर्णानि अश्वत्थं अव्ययम् प्राहु:  ।  य: तं वेद स: वेदवित् ।


🌻व्याकरणम्.......
▶ सन्धिः

प्राहु: + अव्ययम् -   विसर्गरेफ:

य: + तम् - विसर्गसकार:

स: + वेदवित्  - विसर्गलोप:

▶ समास:
ऊर्ध्वं मूलं यस्य स: - ऊर्ध्वमूल: - समानाधिकरणबहुव्रीहिसमास: - तम्

अध: शाखा: यस्य स: - अध: शाख:
समानाधिकरणबहुव्रीहिसमास: - तम्

वेदान् वेत्ति - वेदवित् - उपपदसमास:

☸☸ श्री कृष्णार्पणमस्तु ☸☸

~ ✍ शरवण:
10.09.2019

यस्मात्क्षरमतीतोSहमक्षरादपि चोत्तम: । अतोSस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥१५.१८॥

🕉 श्रीमद्भगवद्गीता 🕉
अथ पञ्चदशोsध्याय:
पुरुषोत्तमयोग:

🔔मूलश्लोक: 🔔

यस्मात्क्षरमतीतोSहमक्षरादपि चोत्तम: ।
अतोSस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥१५.१८॥

🏹पदच्छेदः........

यस्मात् क्षरम् अतीत: अहम् अक्षरात् अपि च उत्तम: अत: अस्मि लोके वेदे च प्रथित: पुरुषोत्तम:

🌹पदपरिचयः......🌹

यस्मात्  - दकार पु प एक
क्षरम् - अकार पु द्वि एक
अतीत: - अकार पु प्र एक
अक्षरात्  - अकार पु प एक
उत्तम: - अकार पु प्र एक
लोके - अकार पु स एक
वेदे - अकार पु स एक
प्रथित: - अकार पु प्र एक
पुरुषोत्तम: - अकार पु प्र एक


🌷 पदार्थः.

यस्मात् - यस्मात् कारणात्
क्षरम् - अचेतनम्
अतीत: - अतिक्रान्त:
अक्षरात्  - चेतनात्
उत्तम: - उत्कृष्टतम:
लोके - लोके
वेदे - वेदे
प्रथित: - प्रख्यात:
पुरुषोत्तम: - पुरुषोत्तम:

🌻अन्वयः 🌻

यस्मात् अहं क्षरम् अतीत:  अक्षरात् अपि उत्तम:  । अत: लोके वेदे च पुरुषोत्तम:  प्रथित: अस्मि ।

🌻व्याकरणम्.......
▶ सन्धिः

अतीत: + अहम् - विसर्गउकार: पूर्वरूपसन्धि:

अक्षरात् +  अपि - जश्त्वसन्धि:

च  + उत्तम:  - गुणसन्धि:

अत:+ अस्मि -विसर्गउकार: पूर्वरूपसन्धि:


☸☸ श्री कृष्णार्पणमस्तु ☸☸

~ ✍ शरवण:
05.10.2019