🕉 श्रीमद्भगवद्गीता 🕉 अथ पञ्चदशोsध्याय: पुरुषोत्तमयोग: 🔔मूलश्लोक: 🔔 श्री भगवानुवाच ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५.१॥

🕉 श्रीमद्भगवद्गीता 🕉
अथ पञ्चदशोsध्याय:
पुरुषोत्तमयोग:

🔔मूलश्लोक: 🔔
श्री भगवानुवाच
ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५.१॥

🏹पदच्छेदः........

ऊर्ध्वमूलम् अध:शाखम् अश्वत्थं प्राहु: अव्ययम् छन्दांसि यस्य पर्णानि य: तं वेद स: वेदवित्

🌹पदपरिचयः......🌹
ऊर्ध्वमूलम् - अकार पु द्वि एक
अध:शाखम् - अकार पु द्वि एक
अश्वत्थं - अकार पु द्वि एक
प्राहु: - लट् प्रपु बहु
अव्ययम् - अकार पु द्वि एक
छन्दांसि - सकार नपु प्र बहु
पर्णानि - अकार नपु प्र बहु
वेद - लट् प्रपु एक
वेदवित् - तकार पु प्र एक

🌷 पदार्थः.

ऊर्ध्वमूलम् -  ऊर्ध्वस्थितपुरुषोत्तममूलम्
अध:शाखम् - नीचस्थितमहदहङ्कारतन्मात्रादय:
अश्वत्थं -  अश्वत्थं
प्राहु: - वदन्ति
अव्ययम् - नाशरहितम्
छन्दांसि - वेदा:
पर्णानि - पत्राणि
वेद - जानाति
वेदवित् -वेदार्थज्ञ:

🌻अन्वयः 🌻

(ते) ऊर्ध्वमूलम् अध:शाखम् यस्य छन्दांसि  पर्णानि अश्वत्थं अव्ययम् प्राहु:  ।  य: तं वेद स: वेदवित् ।


🌻व्याकरणम्.......
▶ सन्धिः

प्राहु: + अव्ययम् -   विसर्गरेफ:

य: + तम् - विसर्गसकार:

स: + वेदवित्  - विसर्गलोप:

▶ समास:
ऊर्ध्वं मूलं यस्य स: - ऊर्ध्वमूल: - समानाधिकरणबहुव्रीहिसमास: - तम्

अध: शाखा: यस्य स: - अध: शाख:
समानाधिकरणबहुव्रीहिसमास: - तम्

वेदान् वेत्ति - वेदवित् - उपपदसमास:

☸☸ श्री कृष्णार्पणमस्तु ☸☸

~ ✍ शरवण:
10.09.2019